Skip to main content

Posts

Showing posts from June, 2021

शिव मङ्गलाष्टकम्

 शिव मङ्गलाष्टकम् भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ 3 ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ 4 ॥ मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्रयम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ 5 ॥ गङ्गाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ 6 ॥ सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पञ्चवक्राय मङ्गलम् ॥ 7 ॥ सदाशिव स्वरूपाय नमस्तत्पुरुषाय च । अघोराय च घोराय महादेवाय मङ्गलम् ॥ 8 ॥ महादेवस्य देवस्य यः पठेन्मङ्गलाष्टकम् । सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ॥ 9 ॥

पञ्चामृत स्नानाभिषेकम्

 पञ्चामृत स्नानाभिषेकम् . क्षीराभिषेकं आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒वृष्णि॑यं । भवा॒वाज॑स्य सङ्ग॒धे ॥ क्षीरेण स्नपयामि ॥ दध्याभिषेकं द॒धि॒क्रावण्णो॑ अ॒कारिषं॒ जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षितारिषत् ॥ दध्ना स्नपयामि ॥ आज्याभिषेकं शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वोवस्स॑वितो॒त्पु॑ना॒ त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒ स्सूर्य॑स्य र॒श्मिभिः॑ ॥ आज्येन स्नपयामि ॥ मधु अभिषेकं मधु॒वाता॑ ऋतायते मधु॒क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नस्सं॒त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ मधुना स्नपयामि ॥ शर्कराभिषेकं स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु॒ नाम्ने᳚ । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे बृह॒स्पत॑ये॒ मधु॑मा॒ग्ं अदा᳚भ्यः ॥ शर्करया स्नपयामि ॥ याः फ॒लिनीर्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ । बृह॒स्पति॑ प्रसूता॒स्तानो मुञ्चस्त्वग्ं ह॑सः ॥ फलोदकेन स्नपयामि ॥ शुद्धोदक अभिषेकं ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्ज...

मन्यु सूक्तम्

 मन्यु सूक्तम् . ऋग्वेद संहिता;  मण्डलं 10;  सूक्तं 83,84 . यस्ते᳚ म॒न्योऽवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ 1 ॥ म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे᳚दाः । म॒न्युं विश॑ ईलते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ॥ 2 ॥ अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू᳚न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ 3 ॥ त्वं हि म᳚न्यो अ॒भिभू᳚त्योजाः स्वयं॒भूर्भामो᳚ अभिमातिषा॒हः । वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ 4 ॥ अ॒भा॒गः सन्नप॒ परे᳚तो अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः । तं त्वा᳚ मन्यो अक्र॒तुर्जि॑हीला॒हं स्वात॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ॥ 5 ॥ अ॒यं ते᳚ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्वहना᳚व॒ दस्यू᳚न् ऋ॒त बो᳚ध्या॒पेः ॥ 6 ॥ अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मुभा उ॑पां॒शु प्र॑थ॒मा प...

नक्षत्र सूक्तम् (नक्षत्रेष्टि) .

 नक्षत्र सूक्तम् (नक्षत्रेष्टि) . . . तैत्तिरीय ब्रह्मणम् ।  अष्टकम् - 3  प्रश्नः - 1 तैत्तिरीय संहिताः ।  काण्ड 3  प्रपाठकः - 5  अनुवाकम् - 1 ॐ ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमिं॑द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभिर॒भिसं॒वसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1 ॥ प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धयं॑ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ॥ 2 ॥ सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां यज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ 3 ॥ आ॒र्द्रया॑ रु॒द्रः प्रथ...

श्री काल हस्तीश्वर शतकम्

 श्री काल हस्तीश्वर शतकम् . श्रीविद्युत्कलिताऽजवञ्जवमहा-जीमूतपापाम्बुधा- रावेगम्बुन मन्मनोब्जसमुदी-र्णत्वम्बुं गोल्पोयितिन् । देवा! मी करुणाशरत्समयमिं-तें जालुं जिद्भावना- सेवं दामरतम्परै मनियॆदन्- श्री कालहस्तीश्वरा! ॥ 1 ॥ वाणीवल्लभदुर्लभम्बगु भवद्द्वारम्बुन न्निल्चि नि र्वाणश्रीं जॆऱपट्टं जूचिन विचारद्रोहमो नित्य क ल्याणक्रीडलं बासि दुर्दशलपा लै राजलोकाधम श्रेणीद्वारमु दूऱञ्जेसि तिपुडो श्री कालहस्तीश्वरा! ॥ 2 ॥ अन्ता मिध्य तलञ्चि चूचिन नरुं डट्लौ टॆऱिङ्गिन् सदा कान्त ल्पुत्रुलु नर्धमुन् तनुवु नि क्कम्बञ्चु मोहार्णव चिभ्रान्तिं जॆन्दि जरिञ्चु गानि परमार्धम्बैन नीयन्दुं दां जिन्ताकन्तयु जिन्त निल्पण्डुगदा श्री कालहस्तीश्वरा! ॥ 3 ॥ नी ना सन्दॊडम्बाटुमाट विनुमा नीचेत जीतम्बु नें गानिं बट्टक सन्ततम्बु मदि वेड्कं गॊल्तु नन्तस्सप त्नानीकम्बुन कॊप्पगिम्पकुमु नन्नापाटीये चालुं दे जीनॊल्लं गरि नॊल्ल नॊल्ल सिरुलन् श्री कालहस्तीश्वरा! ॥ 4 ॥ भवकेलीमदिरामदम्बुन महा पापात्मुण्डै वीडु न न्नु विवेकिम्पं डटञ्चु नेनु नरकार्णोराशिपालैनं ब ट्टवु; बालुण्डॊकचोट नाटतमितोड न्नूतं गूलङ्गं दं ड्रि विचारिम्...

क्षमादान

 *क्षमादान* वशिष्ठ और विश्वामित्र के बीच श्रेष्ठता का निर्णय इसी गुण ने तो किया था। ब्रह्मा जी विश्वामित्र के घोर तप से प्रसन्न होकर प्रकट हुए और उन्हें राजर्षि कहकर संबोधित किया। विश्वामित्र इस वरदान से संतुष्ट न थे। उन्होंने अप्रत्यक्ष रूप से जाहिर कर दिया कि ब्रह्मा उन्हें समुचित पुरस्कार नहीं दे रहे। ब्रह्माजी ने कहा- तुम्हें बहुत ज़ल्दी आभास हो जाएगा कि आखिर मैंने ऐसा क्यों कहा। जो चीज़ तुम्हें मैं नहीं दे सकता उसे तुम उससे प्राप्त करो जिससे द्वेष रखते हो। विश्वामित्र के लिए यह जले पर नमक छिड़कने की बात हो गयी। जिस वसिष्ठ से प्रतिशोध के लिए राजा से तपस्वी बने हैं उनसे वरदान लेंगे! ब्रह्मा अपने पुत्र को श्रेष्ठ बताने के लिए भूमिका बांध रहे हैं। विश्वामित्र सामान्य बात को भी आन पर ले लेते थे इसलिए राजर्षि ही रहे जबकि वशिष्ठ क्षमा की प्रतिमूर्ति थे। उन्होंने यह भूला दिया कि विश्वामित्र ही उनके पुत्र शक्ति की हत्या के लिए उत्तरदायी हैं। वह अपनी पत्नी अरुंधति से विश्वामित्र केे तप की प्रशंसा किया करते थे। एकदिन विश्वामित्र हाथ में तलवार लिए वशिष्ठ की हत्या करने चुपके से आश्रम में घुसे...

शिव कवचम्

 शिव कवचम् अस्य श्री शिवकवच स्तोत्र महामन्त्रस्य ऋषभयोगीश्वर ऋषिः । अनुष्टुप् छन्दः । श्रीसाम्बसदाशिवो देवता । ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यं उमापतये करतलकरपृष्ठाभ्यां नमः । हृदयादि अङ्गन्यासः ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् । शिं शूलपाणये कवचाय हुं । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यं उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् । सहस्रकरमत्युग्रं वन्दे शम्भुं उमापतिम् ॥ रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः । पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥ अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥ पञ्चपूजा लं पृथिव्यात्मने गन्धं समर्पयामि ।...

द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

 द्वादश ज्योतिर्लिङ्ग स्तोत्रम् लघु स्तोत्रम् सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ॥ पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् । सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥ वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे । हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥ सम्पूर्ण स्तोत्रम् सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥ श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥ 4 ॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥ यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनै...

शिव भुजङ्गम्

 शिव भुजङ्गम् . गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ 1 ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ 2 ॥ स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं मनोहारि सर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥ शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः । अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥ 4 ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि श्रीमहः श्याममर्धम् । गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसम्पत्तिहेतोः ॥ 5 ॥ स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम् । नमस्यामि शम्भो पदाम्भोरुहं ते भवाम्भोधिपोतं भवानी विभाव्यम् ॥ 6 ॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ 7 ॥ विरूपाक्ष विश्वेश विश्वादिदेव त्रयी मूल शम्भो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्...

शिव ताण्डव स्तोत्रम्

 शिव ताण्डव स्तोत्रम् . जटाटवीगलज्जलप्रवाहपावितस्थले गलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् । डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ 1 ॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- -विलोलवीचिवल्लरीविराजमानमूर्धनि । धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ 2 ॥ धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे । कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥ 3 ॥ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे । मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ 4 ॥ सहस्रलोचनप्रभृत्यशेषलेखशेखर प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः । भुजङ्गराजमालया निबद्धजाटजूटक श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥ 5 ॥ ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा- -निपीतपञ्चसायकं नमन्निलिम्पनायकम् । सुधामयूखलेखया विराजमानशेखरं महाकपालिसम्पदेशिरोजटालमस्तु नः ॥ 6 ॥ करालफालपट्टिकाधगद्धगद्धगज्ज्वल- द्धनञ्जयाधरीकृतप्रचण्डपञ्चसायके । धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक- -प्रकल्पन...

शिव सहस्र नाम

 शिव सहस्र नाम स्तोत्रम् ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः । हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥ अभिवाद्यो महाकर्मा तपस्वी भूत भावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥ महारूपो महाकायो वृषरूपो महायशाः । महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥ लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥ सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः । सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥ चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः । अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥ महातपा घोर तपाऽदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥ योगी योज्यो महाबीजो महारेता महातपाः । सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥ दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥ गणकर्ता गणपतिर्दिग्वासाः का...

शिव मानस पूजा

 शिव मानस पूजा . रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् । जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥ सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ 4 ॥ कर चरण कृतं वाक्कायजं कर्मजं वा श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्-क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥ 5 ॥

तोटकाष्टकम्

 तोटकाष्टकम् . विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे । हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् । रचयाखिल दर्शन तत्त्वविदं भव शङ्कर देशिक मे शरणम् ॥ 2 ॥ भवता जनता सुहिता भविता निजबोध विचारण चारुमते । कलयेश्वर जीव विवेक विदं भव शङ्कर देशिक मे शरणम् ॥ 3 ॥ भव ऎव भवानिति मॆ नितरां समजायत चेतसि कौतुकिता । मम वारय मोह महाजलधिं भव शङ्कर देशिक मे शरणम् ॥ 4 ॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शन लालसता । अति दीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥ 5 ॥ जगतीमवितुं कलिताकृतयो विचरन्ति महामाह सच्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्कर देशिक मे शरणम् ॥ 6 ॥ गुरुपुङ्गव पुङ्गवकेतन ते समतामयतां न हि कोऽपि सुधीः । शरणागत वत्सल तत्त्वनिधे भव शङ्कर देशिक मे शरणम् ॥ 7 ॥ विदिता न मया विशदैक कला न च किञ्चन काञ्चनमस्ति गुरो । दृतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥ 8 ॥

कालभैरवाष्टकम्

 कालभैरवाष्टकम् देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् । नारदादि योगिबृन्द वन्दितं दिगम्बरं काशिकापुराधिनाथ कालभैरवं भजे ॥ 1 ॥ भानुकोटि भास्वरं भवब्धितारकं परं नीलकण्ठ मीप्सितार्ध दायकं त्रिलोचनं । कालकाल मम्बुजाक्ष मस्तशून्य मक्षरं काशिकापुराधिनाथ कालभैरवं भजे ॥ 2 ॥ शूलटङ्क पाशदण्ड पाणिमादि कारणं श्यामकाय मादिदेव मक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्र ताण्डव प्रियं काशिकापुराधिनाथ कालभैरवं भजे ॥ 3 ॥ भुक्ति मुक्ति दायकं प्रशस्तचारु विग्रहं भक्तवत्सलं स्थितं समस्तलोक विग्रहम् । निक्वणन्-मनोज्ञ हेम किङ्किणी लसत्कटिं काशिकापुराधिनाथ कालभैरवं भजे ॥ 4 ॥ धर्मसेतु पालकं त्वधर्ममार्ग नाशकं कर्मपाश मोचकं सुशर्म दायकं विभुम् । स्वर्णवर्ण केशपाश Sऒभिताङ्ग निर्मलं काशिकापुराधिनाथ कालभैरवं भजे ॥ 5 ॥ रत्न पादुका प्रभाभिराम पादयुग्मकं नित्य मद्वितीय मिष्ट दैवतं निरञ्जनम् । मृत्युदर्प नाशनं करालदंष्ट्र भूषणं काशिकापुराधिनाथ कालभैरवं भजे ॥ 6 ॥ अट्टहास भिन्न पद्मजाण्डकोश सन्ततिं दृष्टिपात नष्टपाप जालमुग्र शासनम् । अष्टसिद्धि दायकं कपालमालिका धरं काशिकापुराधिनाथ ...

शिव अष्टोत्तर शत नामावलि

 शिव अष्टोत्तर शत नामावलि . ॐ शिवाय नमः ॐ महेश्वराय नमः ॐ शम्भवे नमः ॐ पिनाकिने नमः ॐ शशिशेखराय नमः ॐ वामदेवाय नमः ॐ विरूपाक्षाय नमः ॐ कपर्दिने नमः ॐ नीललोहिताय नमः ॐ शङ्कराय नमः (10) ॐ शूलपाणये नमः ॐ खट्वाङ्गिने नमः ॐ विष्णुवल्लभाय नमः ॐ शिपिविष्टाय नमः ॐ अम्बिकानाथाय नमः ॐ श्रीकण्ठाय नमः ॐ भक्तवत्सलाय नमः ॐ भवाय नमः ॐ शर्वाय नमः ॐ त्रिलोकेशाय नमः (20) ॐ शितिकण्ठाय नमः ॐ शिवाप्रियाय नमः ॐ उग्राय नमः ॐ कपालिने नमः ॐ कौमारये नमः ॐ अन्धकासुर सूदनाय नमः ॐ गङ्गाधराय नमः ॐ ललाटाक्षाय नमः ॐ कालकालाय नमः ॐ कृपानिधये नमः (30) ॐ भीमाय नमः ॐ परशुहस्ताय नमः ॐ मृगपाणये नमः ॐ जटाधराय नमः ॐ क्तॆलासवासिने नमः ॐ कवचिने नमः ॐ कठोराय नमः ॐ त्रिपुरान्तकाय नमः ॐ वृषाङ्काय नमः ॐ वृषभारूढाय नमः (40) ॐ भस्मोद्धूलित विग्रहाय नमः ॐ सामप्रियाय नमः ॐ स्वरमयाय नमः ॐ त्रयीमूर्तये नमः ॐ अनीश्वराय नमः ॐ सर्वज्ञाय नमः ॐ परमात्मने नमः ॐ सोमसूर्याग्नि लोचनाय नमः ॐ हविषे नमः ॐ यज्ञमयाय नमः (50) ॐ सोमाय नमः ॐ पञ्चवक्त्राय नमः ॐ सदाशिवाय नमः ॐ विश्वेश्वराय नमः ॐ वीरभद्राय नमः ॐ गणनाथाय नमः ॐ प्रजापतये नमः ॐ हिरण्यरेतस...

योगदिवस विशेष

 योग:- भारतीय जीवन दर्शन और वेदों के ऋचाओं की संजीवनी। .     योग का वर्णन वेदों में, फिर उपनिषदों में और फिर गीता में मिलता है, लेकिन महर्षि पतंजलि और गुरु गोरखनाथ ने योग के बिखरे हुए ज्ञान को व्यवस्थित रूप से लिपिबद्ध किया।  योग हिन्दू धर्म के छह दर्शनों में से एक है।  ये छह दर्शन हैं-  1.न्याय  2.वैशेषिक  3.मीमांसा  4.सांख्य  5.वेदांत  6.योग। योग के मुख्य अंग हैं:- 1.  यम 2.नियम 3.अंग संचालन 4.आसन 5.क्रिया 6.बंध 7.मुद्रा 8.प्राणायाम 9.प्रत्याहार 10.धारणा 11.ध्यान  12.समाधि।          इसके अलावा योग के प्रकार, योगाभ्यास की बाधाएं, योग का इतिहास, योग के प्रमुख ग्रंथ। योग के प्रकार।  1.राजयोग,  2.हठयोग,  3.लययोग,  4. ज्ञानयोग,  5.कर्मयोग  6. भक्तियोग।      इसके अलावा बहिरंग योग, नाद योग, मंत्र योग, तंत्र योग, कुंडलिनी योग, साधना योग, क्रिया योग, सहज योग, मुद्रायोग, और स्वरयोग आदि योग के अनेक आयामों की चर्चा की जाती है। लेकिन सभी उक्त छह में समाहित हैं। पां...