शिव मङ्गलाष्टकम् भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ 3 ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ 4 ॥ मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्रयम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ 5 ॥ गङ्गाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ 6 ॥ सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पञ्चवक्राय मङ्गलम् ॥ 7 ॥ सदाशिव स्वरूपाय नमस्तत्पुरुषाय च । अघोराय च घोराय महादेवाय मङ्गलम् ॥ 8 ॥ महादेवस्य देवस्य यः पठेन्मङ्गलाष्टकम् । सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ॥ 9 ॥